भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 281 to 290 of 1676 verses
आस्फोटयाञ्चक्रुरभिप्रणेमू रेजुर्ननन्दुर्विययुस्समीयुः॥ ६३॥

एवं धर्माभ्युदयादौ धर्मशास्त्रम्; मुद्राराक्षसादावर्थशास्त्रम्; मालतीमाधवादौ कामशास्त्रम्; अन्तरात्मचरितादौ मोक्षशास्त्रम्; महाभारतादौ धर्मार्थकाममोक्षशास्त्राणि प्रासङ्गिकानीत्यलमतिप्रसङ्गेन।

(२९. आवृत्तिः)

एकस्य कारकक्रियादेः पदार्थस्याभिन्नरूपस्यैव पर्यायेणानेकत्र वर्तनम् आवृत्तिः। तत्र यथैकं पात्रमसहभुजां भुजिक्रियायामधिकरणभावमावृत्त्या प्रतिपद्यते, एकं वस्त्रमाभरणं वा रङ्गभूमिषु नटानामुपयोगाय कल्पते, एवं व्यायामाड्गमायुजीविना— मभ्यासं प्रत्युपकरोति, यथा च सहस्रमृषय एकां कपिलामावृत्त्या दत्त्वा सर्वे सहस्त्रदक्षिणा बभूवुः, तथैकं क्रियापदं कारकपदं वा प्रतिवाक्यमावर्तमानमाकाङ्क्षां निराकरोति। तयोः —

क्रियापदावृत्तिर्यथा—

शशिना च निशा निशया च शशी शशिना निशया च यथा गगनम्।

भवता च सभा सभया च भवान् भवता सभया च विभाति जगत्॥

कारकपदावृत्तिर्यथा—

सीतावेश्म यतो निरीक्ष्य हरते दृष्टिं झटित्याकुला— मन्योन्यार्पितचञ्चुदत्तकबलैः पारावतैर्दूयते।

इन्दोर्दूरत एव नश्यति विशत्यन्तर्गृहं दुःखितः प्रच्छाद्याननमञ्चलेन रजनीष्वस्तत्रपं रोदिति॥ ६५॥

Showing 281 to 290 of 1676 verses