इतः स दैत्यः प्राप्तश्रीः॥ ७७॥
श्रुतिसुखमात्रजननं श्रव्यम्। तत्षोढा—
आशीः, नान्दी, नमस्कृतिः, वस्तुनिर्देशः, ध्रुवा, आक्षिप्तिकेत्यादि। तत्र लिङ्लोड्वाच्योऽर्थविशेष आशीः, यथा—
भूयाद् वः श्रेयसे देवः पार्वतीदयितो हरः॥ ७८॥
पातु वः परमं ज्योतिरवाङ्मनसगोचरम्॥ ७९॥