रङ्गमङ्गलान्तस्वस्त्ययनं नान्दी, यथा—(कम. १.१)
भद्दं भोदु सरस्सईअ कइणो णंदंतु वासाइणो अण्णाणं पि परं पअट्ठदु वरा वाणी छइल्लप्पिआ।
वच्छोमी तह माअही फुरदु णो सा किं अ पंचालिआ रीदीयो विलिहंतु कव्वकुसला जोह्णं चओरा विअ॥ ८०॥
(भद्रं भवतु सरस्वत्याः कवयो नन्दन्तु व्यासादयः अन्येषामपि परं प्रवर्ततां वरा वाणी विदग्धप्रिया।
वैदर्भी तथा मागधी स्फुरतु नः सा किं च पाञ्चालिका रीतिका विलिहन्तु काव्यकुशला ज्योत्स्नां चकोरा इव॥)
स्तुतिर्नमोवाक्यं वा नमस्क्रिया, यथा—
जयति ब्रह्मभूः शम्भुः॥ ८१॥
इदं गुरुभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे॥ ८३॥