सुरसुहदेत्तवलिअधवलच्छिहिं जअइ सहासं वअणु महलच्छिहिं॥ ८६॥
(पदपीडितमहिषासुरदेहाया भुवनभयलावकशशिलेखायाः।
सुरसुखदातृवलितधवलाक्ष्या जयति सहासं वदनं महालक्ष्म्याः॥)
प्रेक्षानिमित्तं वाचिकाद्यभिनयरहितमाङ्गिकैकनिर्वर्त्यं प्रस्थानडोम्बलिकादिवाक्यं प्रेक्ष्यम्। तत्षोढा— लास्यं, ताण्डवं, छलिकं, शम्या, हल्लीसकं, रास इति। तेषु श्रृङ्गाररसप्रधानं लास्यं, यथा—
उच्चिउ वालीयिअ पन्थहिं जंतउ।
पेक्खमि हत्थं होइ जइ लोअणवंतउ॥ ८७॥
(उच्चा पालिः प्रियः पथा याति।
प्रेक्षे हस्तो भवति यदि लोचनवान्॥)
रौद्रवीरप्रधानं ताण्डवं, यथा—