कथाशरीरव्यापिनो नायकादेरभिधानं वस्तुनिर्देशः, यथा—
अस्त्युद्दामजटाभारभ्रान्तगङ्गाम्बुशेखरः।
आदिदेवो हरो नाम सृष्टिसंहारकारणम्॥ ८४॥
पात्रप्रवेशादिसूचकं वाक्यं ध्रुवा, यथा
मअ—वह—णिमित्त—णिग्गअ—मइन्द—सुण्णं गुहं णिएऊण।
लद्धावसरो गहिऊण मोत्तिआइं गओ वाहो॥ ८५॥
(मुगवधनिमित्तनिर्गतमृगेन्द्रशून्यां गुहां निरूप्य।
लब्धावसरो गृहीत्वा मौक्तिकानि गतो व्याधः॥)
अभिधित्सितरागविशेषप्रयोगमात्रफलं वचनमाक्षिप्तिका, यथा—
पअपीडिअमहिसासुरदेहेहिं भुअणभअलुआवअ/ससिलेहिं।