तयोर्वाक्यभेदः प्राकृतो वैकृतश्च। प्राकृतो यथा पश्य मृगो धावति, अयं दण्डो हरानेन फलानि इति। अत्र प्रथमोदाहरणे पश्येत्येकं वाक्यं मृगो धावतीति द्वितीयम्, द्वितीये अयं दण्ड इत्येकं, हरानेन फलानीति च द्वितीयम्, प्रकृतिस्थ एव सन्दर्भे पृथक् क्रियते। अन्यथैकवाक्यतायां पश्येति क्रियायाः कर्मपदाभावादप्रयोगार्हता, हरेत्यस्याश्च 'तिङ्ङतिङः' इति निघातः प्राप्नोति। कविप्रयोगेष्वपि चैतद् दृश्यते, तद्यथा— (कुसं. ८.६४)
पश्य पार्वति! पयोदपङ्क्तिभिर्व्यस्तपङ्कमिव जातमेकतः।
खं हृतातपजलं विवस्वता भाति किंञ्चिदिव शेषवत् सरः॥ ६८॥
वैकृतस्तु लोके शास्त्रे वेदे च। यथा— 'ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौष— धयोऽप्सरस ऊर्जो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहा (तै.सं. ३.४.७)। अत्रैकमेव ताद् वाक्यं, ऋताषाडृतधामाग्निर्गन्धर्वस्स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा, तस्याप्सरस ऊर्जो नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्यः स्वाहा। अत्र लिङ्गविभक्तिविपरिणामाद् वैकृतत्वं शास्त्रे यथा—(मभा. पस्पशा)
यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद् व्यवहारकाले।
सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दैः॥ ६९॥
अत्र वाग्योगविदितिपर्यन्तमेकं वाक्यं, दुष्यति चापशब्दैरिति द्वितीयम्।
किं वाग्योगविदेव दुष्यति ?
नैवम्, अवाग्योगविदित्यस्य वैकृतत्वाद् वाक्यविशेषः क्रियते।