श्रृङ्गारप्रकाशे दशमः प्रकाशः
शब्दार्थोभयालङ्कारप्रकाशो नाम
अथ अपास्तदोषस्य उपात्तगुणस्य च काव्यशरीरस्य चारुत्वोत्कर्षसिद्धये प्राप्तकालः अलङ्कारयोग उच्यते। यतः—
दीर्घापाङ्गं नयनयुगळं भूषयत्यञ्जनश्रीः
तुङ्गाभोगौ प्रभवति कुचावर्चितुं हारयष्टिः।
मध्यक्षामे वपुषि लभते स्थाम कूर्पासलक्ष्मीः
श्रोणीबिम्बे गुरुणि रशनादामशोभां बिभर्ति॥१॥
अलङ्काराश्च त्रिधा— बाह्याः, आभ्यन्तराः, बाह्याभ्यन्तराश्च। तेषु —