भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 301 to 310 of 1530 verses
अत्र चालम्बनविभावभूताद् देवीमरणादुत्पन्ने शोकस्थायिभावे चितानिवेशन— हुताशनज्वालादिभिरुद्दीपनविभावैरुद्दीप्यमाने समुत्पन्नेषु निर्वेदग्लानिचिन्तास्तम्भादिषु व्यभिचारिषु परप्रकर्षात् करुणरसतामापन्ने स्थायिनि करुणरसवतो नायकस्य यदेतद् यस्याः कुसुमशय्यापीत्यादिवचनं तत् करुणरसादुपजायमानमनुभावरूपं रसवदुच्यते।

जुगुप्साया बीभत्सनिष्पत्तिर्यथा—(काव्याद. २.२८८)

पायं पायं तवारीणां शोणितं पाणिसम्पुटैः।

कौणपास्सह नृत्यन्ति कबन्धैरान्त्रभूषणाः॥ ५६॥

अत्रालम्बनविभावभूतेभ्यः कौणपेभ्यः कस्यचिद्‍राज्ञो विजयशंसिनः पुंस उत्पन्ने जुगुप्सास्थायिभावे शिरश्छेदविगलद्‍रुधिरधारापरिप्लुतप्रनर्तितकबन्धान्त्रभूषणशोणित— पानादिभिरुद्दीपनविभावैरुद्दीप्यमाने समुत्पन्नेषु भयावेगशङ्कावहित्थादिषु व्यभिचारिषु परां कोटिमधिरूढे बीभत्सरसतामापन्ने स्थायिनि यदेतत् पायंपायमित्यादिवचनं तद् बीभत्सरसादुपजायमानं रसवदुच्यते। एवमेते अष्टावेव रत्यादयो भूमानमापन्नाः शृङ्गारवीरादिव्यपदेशं लभन्ते।

(रसेभ्यो रसनिष्पत्तिः)

यथा चैते भावेभ्यो रसाः रसेभ्यो भावाः तथा रसेभ्यश्च रसा भवन्तीति भरताचार्यः। तत्र—

शृङ्गाराद्धास्यरसनिष्पत्तिर्यथा— (द्र. अत्रैव १०.२)

स एष भुवनत्रयप्रथितसंयमश्शङ्करो बिभर्ति वपुषाधुना विरहकातरः कामिनीम्।

अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिघट्टयन् जयति जातहासः स्मरः॥ ५७॥

Showing 301 to 310 of 1530 verses