रत्यादयो यदि रसाः स्युरतिप्रकर्षे हर्षादिभिः किमपराद्धमतद्विभिन्नैः।
न स्थायिनस्त इति चेद् भयहासशोक— क्रोधादयो वद कियच्चिरमुलसन्ति॥ ६१॥
न चाष्टावेवेति नियमः, यतः शान्तं प्रेयांसमुद्धतमूर्जस्विनं च केचिद् रसमाचक्षते। तन्मूलाश्च किल नायकानां धीरप्रशान्तधीरललितधीरोद्धतधीरोदात्त— व्यपदेशाः। तेषु —
धीरप्रशान्ताश्रयः शान्तो यथा—
सर्वास्सम्पत्तयस्तस्य सन्तुष्टं यस्य मानसम्।
उपानद्गूढपादस्य ननु चर्मास्तृतैव भूः॥ ६२॥
धीरललिताश्रयः प्रेयान् यथा—
यदेव रोचते मह्यं तदेव कुरुते प्रिया।
इति वेत्ति न जानाति तत् प्रियं यत् करोति सा॥ ६३॥
धीरोद्धताश्रय उद्धतो यथा—(वेसं. ३.४६)