धृतायुधो यावदहं तावदन्यैः किमायुधैः।
यद्वा न सिद्धमस्त्रेण मम तत् केन सेत्स्यति॥ ६४॥
धीरोदात्ताश्रय ऊर्जस्वी यथा—(काव्याद. २.२९३)
अपकर्ताहमस्मीति मा ते मनसि भूद् भयम्।
विमुखेषु न मे खङ्गः प्रहर्तुं जातु वाञ्छति॥ ६५॥
अत्र च शमप्रकृतिः शान्तः, स्नेहप्रकृतिः प्रेयान्, गर्वप्रकृतिरुद्धतः, अहङ्कारप्रकृतिः पुनरूर्जस्वीति शृङ्गारादिवदेतेष्वपि विभावानुभावव्यभिचारिसंयोगो द्रष्टव्यः।
अन्ये त्वाहुः — सर्व एव रत्यादयो विभावानुभावव्यभिचारिसंयोगादुत्पद्यमानाः भूमानमापन्ना रसीभवन्ति। तथा हि— (रुद्रटा. १२.४)
रसनाद् रसत्वमेषां मधुरादीनामिवोक्तमाचार्यैः।
निर्वेदादिष्वपि तत् प्रकाममस्तीति तेऽपि रसाः॥ ६६॥
सर्वेषां च तुल्ये रसत्वे रत्यादीनामेव परप्रकर्षगामिनां शृङ्गारवीरादिव्यपदेश इति न घटते। तथात्वे वा नाममात्रं भिद्यते। तदुक्तम्—