भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 291 to 300 of 1530 verses
निगृह्य केशेष्वाकृष्टा कृष्णा येन ममाग्रतः।

सोऽयं दुश्शासनः पापो लब्धः किं जीवति क्षणम्॥ ५३॥

अत्र दुश्शासनालम्बनविभावाय क्रुध्यतो भीमसेनस्य पूर्वमुत्पन्ने क्रोधस्थायिभावे तदवाप्‍तेः स्मर्यमाणसमक्षकृतद्रौपदीकेशकर्षणादिभिरुद्दीपनविभावैरुद्दीप्यमाने समुत्पन्नेषु असूयावेगविपथुश्रमादिषु दुःखात्मकेषु व्यभिचारिषु परं प्रकर्षमधिरूढे रौद्ररसतामापन्ने स्थायिनी यदेतद् भीमसेनस्य निगृह्येत्यादिवचस्तद् रौद्ररसादुपजायमानं रसवदुच्यते।

भयाद् भयानकनिष्पत्तिर्यथा— (काव्याद. २.२९१)

इदं मघोनः कुलिशं धारासन्निहितानलम्।

स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते॥ ५४॥

अत्र महेन्द्रकुलिशाद् धारासन्निहितानलादालम्बनविभावात् स्मर्यमाणादपि दैत्यस्त्रीणामुत्पन्ने भयस्थायिभावे तद्‍‌विदीर्णदानवमरणस्मरणादिभिः उद्दीपनविभावैरुद्दीप्यमाने समुत्पन्नेषु स्वेदस्तम्भवैवर्ण्यवेपथुप्रभृतिषु व्यभिचारिषु स्थायिनो भयानकरसतामापन्नस्य गर्भपातादिभिरनुभावैर्विभाव्यमानस्य स्वरूपसूचकं यदेतदिदं मघोनः कुलिशमित्यादिवचनं तदपि तन्मूलत्वाद् रसवदुच्यते।

शोकात् करुणनिष्पत्तिर्यथा—(काव्याद. २.२८६)

यस्याः कुसुमशय्यापि कोमलाङ्ग्या रुजाकरी।

साधिशेते कथं देवी हुताशनवतीं चिताम्॥ ५५॥

Showing 291 to 300 of 1530 verses