भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 291 to 300 of 2002 verses
वृत्तानि विविधानि स्युर्गेयं चातोद्यसंश्रितम्।

चेष्टा च विविधा पुंसा यत्र सा पुष्पगण्डिका॥ ६६॥

(नाशा. १९.११७)

यथा रत्‍नावल्यां द्वितीयेऽङ्के विदूषकेण नलिनीपत्रशयने दर्शिते राजा— वयस्य, निपुणमुपलक्षितम्।

परिम्लानं पीनस्तनजघनसङ्गादुभयत— स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम्।

इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः सन्तापं वदति नलिनीपत्रशयनम्॥ ६७॥

(रत्‍ना. २.११)

अपि च—

स्थितमुरसि विशालं पद्मिनीपत्रमेतत् कथयति न तथान्तर्मन्मथोत्थामवस्थाम्।

अतिशयपरितापग्लापिताङ्ग्या यथास्याः स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति॥ ६८॥

Showing 291 to 300 of 2002 verses