दृशः पृथुतरीकृता जितनिजाब्जपत्रत्विषः चतुर्भिरपि साधु साध्विति मुखैः समं व्याहृतम्।
शिरांसि चलितानि विस्मयवशाद् ध्रुवं वेधसो विधाय ललनां जगत्त्रयललामभूतामिमाम्॥ ७१॥
दृष्टिं रुषा क्षिपसि यद्यपि भामिनीमां स्निग्धेयेष्यति तथापि न रूक्षभावम्।
त्यक्त्वा त्वरां व्रज पदैः स्खलितैरयं ते खेदं गमिष्यति गुरुर्नियतं नितम्बः॥ ७२॥
श्रीरेषा पाणिरप्यस्याः पारिजातस्य पल्लवः।
कुतोऽन्यथा स्रवत्येष स्वेदच्छद्मामृतद्रवः॥ ७३॥
रूपादिवाद्यसंयुक्तं पाठ्येन च विवर्जितम्।
नाट्यं हि तत्तु विज्ञेयं सैन्धवं नाट्यकोविदैः॥ ७४॥