प्रच्छेदकस्स विज्ञेयो यत्र चन्द्रातपाहताः।
स्त्रियः प्रियेषु सज्जन्ते अपि विप्रियकारिषु॥ ६९॥
यथा रासकाङ्के — 'साधु रे चंदायण पडु अणसु एव x x x णच्चाण अक्खंक (त) हिअअं x x x तनोदीरयाव च्चिअ ईदिसे चुद्धचन्दालोए वदो उ(स)मए(समए) णिद्दिट्ठसंकेअं पिअवअस्सं कदणु अ x x x चपलादियं वेसअन्तेण णिव्वूढं ते जहा समत्थिदं ति। (साधु रे चन्द्रायण x x x आक्रान्तहृदयं x x x इव ईदृशे शुद्धचन्द्रालोके प्रदोषसमये निर्दिष्टसङ्केतं प्रियवयस्यं x x x निर्व्यूढं ते यथा समर्थितम्) इति विदूषकादेव प्रकृतिभेदमवगम्य तथाकृतापराधमपि चन्द्रातपाहता प्रियमभिससार राधा, 'यत्र वा पालितका गता' इति।
अनिष्ठुरश्लक्ष्णपदं समवृत्तैरलङ्कृतम्।
नाट्यं पुरुषभावाढ्यं त्रिमूढकमुदाहृतम्॥ ७०॥
यथा रत्नावल्यां द्वितीयेऽङ्के राजा सागरिकामेवावलोक्याह—(रत्ना. २.१४)