आसीनमास्यते यत्र सर्वातोद्यविवर्जितम्।
अप्रसारितमात्रं च चिन्ताशोकसमन्वितम्॥ ६३॥
(नाशा. १९.११६) १. हृदय, प्रसीद। किममुनायासमात्रफलकेन दुर्लभजनप्रार्थनानुबन्धेन ? अन्यच्च—येनैव दृष्टमात्रेण अयम् ईदृशः सन्तापः तमेव पुनः प्रेक्षितुं अभिलषसीत्यहो ते मूढता। किं च अयि नृशंस ! जन्मप्रभृति सह वर्धितं मां परिवर्ज्य क्षणमात्रदर्शनं जनमनुगच्छत् कथं न लज्ज्से ? अथवा अनङ्गशर— निबन्धनभीतेन त्वयैतद् व्यवसितम्। भगवन् कुसुमायुध ! निर्जितसकलसुरासुरो भूत्वा स्त्रीजनं प्रहरन् न लज्जसे। सर्वथा मम अनेन निमित्तेन उपस्थितम्। तद्यावदिह न केऽपि आगच्छति तावदालेख्यगतं तं जनं प्रेक्ष्य यथासमीहितं करिष्यामि।
यथा रत्नावल्यां तृतीयेऽङ्के राजा आसनस्थ एव प्रविष्टः पठति—(रत्ना. ३.१)
संतापो हृदय ! स्मरानलकृतः संप्रत्ययं सह्यतां नास्त्येवोपरमोऽस्य तां प्रति पुनः किं त्वं मुधा खिद्यसे।
यन्मूढेन मया तदा कथमपि प्राप्तो गृहीत्वा चिरं विन्यस्तस्त्वयि सान्द्रचन्दनरसस्पर्शो न तस्याः करः॥ ६४॥
न च तथाहमेवंविधमात्मानं चिन्तयामि यथान्तर्निगूढकोपसम्भाराया देव्या गोचरगतां तामेव तपस्विनीं सागरिकाम्। तथा हि—(रत्ना. ३.४)
ह्रिया सर्वस्याधो नयति विदितास्मीति वदनं द्वयोर्दृष्ट्वाऽऽलापं कलयति कथामात्मविषयाम्।
सखीषु स्मेरासु प्रकटयति वैलक्ष्यमिति मे प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा॥ ६५॥