भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 281 to 290 of 2002 verses
आसीनमास्यते यत्र सर्वातोद्यविवर्जितम्।

अप्रसारितमात्रं च चिन्ताशोकसमन्वितम्॥ ६३॥

(नाशा. १९.११६) १. हृदय, प्रसीद। किममुनायासमात्रफलकेन दुर्लभजनप्रार्थनानुबन्धेन ? अन्यच्‍च—येनैव दृष्टमात्रेण अयम् ईदृशः सन्तापः तमेव पुनः प्रेक्षितुं अभिलषसीत्यहो ते मूढता। किं च अयि नृशंस ! जन्मप्रभृति सह वर्धितं मां परिवर्ज्य क्षणमात्रदर्शनं जनमनुगच्छत् कथं न लज्ज्से ? अथवा अनङ्गशर— निबन्धनभीतेन त्वयैतद् व्यवसितम्। भगवन् कुसुमायुध ! निर्जितसकलसुरासुरो भूत्वा स्त्रीजनं प्रहरन् न लज्जसे। सर्वथा मम अनेन निमित्तेन उपस्थितम्। तद्यावदिह न केऽपि आगच्छति तावदालेख्यगतं तं जनं प्रेक्ष्य यथासमीहितं करिष्यामि।

यथा रत्‍नावल्यां तृतीयेऽङ्के राजा आसनस्थ एव प्रविष्टः पठति—(रत्‍ना. ३.१)

संतापो हृदय ! स्मरानलकृतः संप्रत्ययं सह्यतां नास्त्येवोपरमोऽस्य तां प्रति पुनः किं त्वं मुधा खिद्यसे।

यन्मूढेन मया तदा कथमपि प्राप्‍तो गृहीत्वा चिरं विन्यस्तस्त्वयि सान्द्रचन्दनरसस्पर्शो न तस्याः करः॥ ६४॥

न च तथाहमेवंविधमात्मानं चिन्तयामि यथान्तर्निगूढकोपसम्भाराया देव्या गोचरगतां तामेव तपस्विनीं सागरिकाम्। तथा हि—(रत्‍ना. ३.४)

ह्रिया सर्वस्याधो नयति विदितास्मीति वदनं द्वयोर्दृष्ट्वाऽऽलापं कलयति कथामात्मविषयाम्।

सखीषु स्मेरासु प्रकटयति वैलक्ष्यमिति मे प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा॥ ६५॥

इति। ४.(१.४)

Showing 281 to 290 of 2002 verses