रतिरेव असंप्रयोगप्रयोजना प्रीतिः। सापि साम्प्रयोगिकीं विना आभ्यासिक्या सह रतिवदष्टप्रकारैव। पुनश्च जातादिभेदात् प्रत्येकं पञ्चधा। अत्र (२.१) नैसर्गिकी
आलक्ष्यदन्तमुकुलाननबद्धहासैरव्यक्तवर्णरमणीयवचः प्रवृत्तीन्।
अङ्कागतान् प्रणयिनस्तनयान् वहन्तो धन्यास्तदङ्गरजसा परुषीभवन्ति॥ ७२॥
अनुबन्धिनी यथा—(विक्रमो.५.१२)
इयं ते जननी प्राप्ता त्वदालोकनतत्परा।
स्नेहप्रस्रवनिर्भिन्नमुद्वहन्ती स्तनांशुकम्॥ ७३॥
प्रकृष्टा यथा—(रघु. ३.२६)
तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि।