उपान्तसम्मीलितलोचनो नृपश्चिरात् सुखस्पर्शरसज्ञतां ययौ॥ ७४॥
अपरिष्वज्य भरतं नास्ति मे गच्छतो धृतिः।
अस्मद्वियोगदुःखान्तं न त्वेनं द्रष्टुमुत्सहे॥ ७५॥
अनुगामिनी यथा—(विक्रमो. ५.१४)
अहं हि पुत्रिणामग्र्यः सत्पुत्रेण तवामुना।
पौलोमीसम्भवेनेव जयन्तेन पुरन्दरः॥ ७६॥
दिष्ट्या सैष महाबाहुरञ्जनानन्दवर्धनः।