ह्नीयन्त्रणामानशिरे मनोज्ञामन्योलोलानि विलोचनानि॥ ८२॥
अनुबन्धो यथा—(वेसं. ४.१५)
अद्यौवावां रणमुपगतौ तातमम्बां च दृष्ट्वा घ्रातस्ताभ्यां शिरसि विनतोऽहं च दुश्शासनश्च।
तस्मिन् बाले प्रसभमरिणा प्रापिते तामवस्थां पार्श्वं पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा॥ ८३॥
द्विषन्निहतरक्षसां सुतसुहृद्वधूबान्धव— प्रलापमतिदुस्सहं प्रथितखेदमाकर्णयन्।
निजान्यपि मुखान्यहो नमितकन्धरो दुर्मना न संप्रति दशाननः सुचिरमीक्षते लज्जया॥ ८४॥
प्रत्यग्रारिकृताभिमन्युनिधनप्रोद्धूततीव्रक्रुधः कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयः।
पार्थस्याकृतशात्रवप्रतिकृतरेन्तश्शुचा मुह्यतो हा वत्सेति गिरस्स्फुरन्ति न पुनर्निर्यान्ति कण्ठाद् बहिः॥ ८५॥