तत् सर्वं प्रणतस्य मेऽद्य दयिते दाक्षायाणि! क्षम्यता— मित्युक्त्वा चरणाब्जयोर्विजयते लुण्ठन् शिवायाः शिवः॥ ८४॥
१६. धीरललितसाधारणधृष्टो यथा—(रत्ना. २.२०)
प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः।
न मे दोषोऽस्तीति त्वमिदमपि विज्ञास्यसि मृषा किमेतस्मिन् वक्तुं क्षममिति न वेद्मि प्रियतमे!॥ ८५॥
१७. धीरललितानुकूलोत्तमो यथा—(विक्र. १.११)
यदृच्छया त्वं सकृदप्यवन्ध्ययोः पथि स्थिता सुन्दरि! यस्य नेत्रयोः।
त्वया विना सोऽपि समुत्सुको भवेत् सखीजनस्ते किमुतार्द्रसौहृदः॥ ८६॥
१८. धीरललितदक्षिणोत्तमो यथा—
प्रत्यग्रोज्झितगोकुलस्य शयनादुत्स्वप्नमूढस्य मा मा गोत्रस्खलितादुपैतु च दिवा राधेति भीरोरिति।
रात्रावस्वपतो दिवा च विजने लक्ष्मीति चाभ्यस्यतो राधां संस्मरतः श्रियं रमयतः खेदो हरेः पातु वः॥ ८७॥