१२. धीरललितसाधारणदक्षिणो यथा—
वाचो भामिनि! किं तवाद्य परुषाः सुभ्रु! भ्रुवोर्विभ्रमः॥ ८१॥ (पृ. ८६३)
१३. धीरललितासाधारणशठो यथा—(उराच. १.४६)
अपूर्वकर्मचण्डालमयि मुग्धे! विमुञ्च माम्।
श्रिताऽसि चन्दन भ्रान्त्या दुर्विपाकं विषद्रुमम्॥ ८२॥
१४. धीरललितसाधारणशठो यथा—
दूरादेव विलोक्य दुग्धधवलां राधामुखेन्दुद्युतिं मुग्धे मोहिनि! मुञ्च मां हलधरस्यैषा प्रभा दृश्यते।
इत्थं व्याजविसर्जितव्रजवधूहर्षप्रसन्नाननः कृष्णो वाञ्छितसङ्गमद्विगुणितप्रेमोत्सवः पातु वः॥ ८३॥
१५. धीरललितासाधारणधृष्टो यथा—
क्लाम्यन्ती यदुपेक्षितासि पुरतः कामो यदग्रे हतः क्लिष्टं यत् तपसा वपुर्यदपि च प्रोक्ता वटुच्छाद्मना।