उन्नद्धस्तनकुम्भकुङ्मलगुरुश्वासावभुग्नस्य ते मध्यस्य त्रिवलीतरङ्गकजुषो भङ्गः प्रिये! मा च भूत्॥ ८०॥
सम्पर्को यथा—(मामा. १.३८)
वारंवारं तिरयति दृशावुद्गतो बाष्पपूर— स्तत्सङ्कल्पोपहितजडिम स्तम्भमभ्येति गात्रम्।
सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधुषु नितरां वर्तते; किं करोमि॥ ८१॥
पप्फुरिअ उट्ठदलअं (अत्रैव पृ. १०.३६५)
वर्णनानुरागादिजन्मा मनस्सङ्कोचो व्रीडा। तस्या
जन्म यथा—(रघु. ७.२३, कुंस. ७.७५)
तयोरपाङ्गप्रतिसारितानि किञ्चिद् व्यवस्थापितसंहृतानि।