अभितप्तमयोऽपि मार्दवं भजते; कैव कथा शरीरिषु॥ ७४॥
प्रकर्षो यथा—(उराच. १.१२)
आनन्दाश्रुतरङ्गलोचनयुगं मार्गार्पितं बिभ्रती हर्षाद् गद्गदया गिरा परिजनं व्यापारयन्ती मुहुः।
सैषा स्वाशयनिर्विकल्पहृदया सौख्याच्चिरप्रार्थिता— दम्बा निष्करुणेन दग्धविधिना दूरं विसंवादिता॥ ७५॥
पि पि प्रिय स स स्वयं मु मु मुखासवं देहि मे त त त्यज दु दु द्रुतं भ भ भ भाजनं काञ्चनम्।
इति स्खलितजल्पितं मदवशात् कुरङ्गीदृशः प्रगे हसितहेतवे सहचरीभिरध्यैयत॥ ७६॥
अनुगमो यथा—(किराता. ९.५०)
पाणिपल्लवविधूननमन्तस्सीत्कृतानि नयनार्धनिमेषाः।
योषितां रहसि गद्गदवाचामस्त्रतामुपययुर्मदनस्य॥ ७७॥