आन्दोलनश्रमजलस्फुटघर्मबिन्दु— मुक्ताफलप्रकरविच्छुरितं प्रियायाः॥ ६५॥
अनुबन्धिनी यथा, उत्तरचरिते चित्रदर्शनान्तरं रामस्य—(उराच. १.२७)
किमपि किमपि मन्दं मन्दमासत्तियोगा— दविरलितकपोलं जल्पतोरक्रमेण।
सपुलकपरिम्भव्यापृतैकैकदोष्णो— रविदितगतयामा रात्रिरेव व्यरंसीत्॥ ६६॥
अभिमानप्रभवा आभिमानिकी। सापि पञ्चधा। तत्र जाता यथा—(उराच. २.१९)
अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति।
तत् तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः॥ ६७॥
यदेव रोचते मह्यं तदेव कुरुते प्रिया।