सुरभिणि श्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे।
अलमलेरिव गन्धरसावमू मम न सौमनसौ मनसो मुदे॥ ५९॥
संपृक्ता यथा—(कुसं. ८.७६)
आर्द्रकेसरसुगन्धि ते मुखं मत्तमत्तनयनं स्वभावतः।
अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि ! मदः करिष्यति॥ ६०॥
गेहाजिरेषु नवशालिकणावपातगन्धानुभावसुभगेषु कृषीवलानाम्।
आनन्दयन्ति मुसलोल्लसनावधूतपाणिस्खलद्वलयपद्धतयो वधूभ्यः॥ ६१॥
संप्रयोगप्रयोजना साम्प्रयोगिकी। सापि पञ्चधैव। तत्र जाता यथा—