भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 251 to 260 of 481 verses
उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः।

भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरलसलसद्‍बाहु लक्ष्म्याः पुनातु॥ ६२॥

अनुबन्धिनी यथा—

उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।

हुं विमुञ्च म म मेति च मन्दं जल्पितं जयति मानवतीनाम्॥ ६३॥

प्रवृद्धा यथा—

धन्यास्स्थ याः कथयथ प्रियसङ्गमेऽपि विस्रब्धचाटुकशतानि रतान्तरेषु।

नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः ! शपामि यदि किञ्चिदपि स्मरामि॥ ६४॥

संपृक्ता यथा—

अद्यापि तत् कनककुण्डलघृष्टगण्ड— मास्यं स्मरामि विपरीतरताभियोगे।

Showing 251 to 260 of 481 verses