सुरतश्रमवारिबिन्दवो न तु तावद् विरमन्ति ते मुखे।
स्वयमस्तमितास्यहो! बत क्षयिणां देहभृतामसारता॥ ७२॥
हर्षादिजन्मा वाग्भङ्गः स्वरभेदः। तस्य
वासिष्ठैः सुकृतोद्भवोऽध्वरशतैरस्त्यग्निकुण्डोद्भवो भूपालः परमार इत्यधिपतिः सप्ताब्धिकाञ्चेर्भुवः।
अद्याप्युद्गतहर्षगद्गदगिरो गायन्ति यस्यार्बुदे विश्वामित्रजयोज्झितस्य भुजयोर्विस्फूर्जितं गुर्जराः॥ ७३॥
विलकाप स बाष्पगद्गदः सहजामप्यवधूय धीरताम्।