अनुबन्धो यथा—(किराता. १७.८)
तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य।
निर्वापयिष्यन्निव रोषतस्तं प्रस्नापयामास मुखं निदाघः॥ ६९॥
करस्पर्शानन्दात् पुलकितपृथूरोजकलशे श्रमाम्भो वामार्धे वमति मदनाकूतसुलभम्।
विभोर्वारं वारं कृतसमाधिकोद्धूलनविधिः/धे— स्तनौ भस्मस्नानं कथमपि समाप्तं विजयते॥ ७०॥
सम्पर्को यथा—(माघ. १०.८०)
प्राप्य मन्मथमदादतिभूमिं दुर्वहस्तनभराः सुरतस्य।
शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः॥ ७१॥