वितर धवलदीर्घापाङ्गसंसर्पि चक्षुः परिजनपथवर्तिन्यत्र किं संभ्रमेण?।
स्मितमधुरमुदारं देवि! मामालपोच्चैः प्रभवति मम पाण्योरञ्जलिस्त्वं स्पृशास्मान्॥ ६८॥
४४. धीरोद्धतसाधारणधृष्टकनिष्ठो यथा—(राच. १९.८६)
एतर्हि मामवनिपुत्रि! भजैकनाथं रत्नाकरं शशधरप्रभवा नदीव।
तस्मिन् निरोजसि न राजसि मर्त्यमात्रे मुक्तावली मृतशरीर इवावनद्धा॥ ६९॥
धीरललितस्तु राजसः। सोऽप्युत्तममध्यमानुकूलदक्षिणशठधृष्टासाधारण— साधारणादिभेदात् चतुश्चत्वारिंशत्प्रकार एव। तत्र—
१. धीरललितोत्तमो यथा—(कुसं. ८.२०)
एवमिन्द्रियसुखस्य वर्त्मनः सेवानादनुगृहीतमन्मथः।
शैलराजभवने सहोमया मासमात्रमवसद् वृषध्वजः॥ ७०॥