उपवन नवनीलीवास्तुक — श्यामलानि क्लममुपरमयन्ति ग्रामकच्छस्थलानि॥ ७४॥
श्रियः पदं द्वारवतीति नाम्ना पुरी परीता लवणार्णवेन।
अस्त्यावृतेवामरराजधानी निस्त्रिंशनीलेन नभस्स्थलेन॥ ७५॥
त्रिदिवपुरसमृद्धिस्पर्धया भान्ति यस्यां सुरसदनशिखाग्रेष्वाग्रहग्रन्थिनद्धाः।
नभसि पवनवेल्लत्पल्लवैरुल्लसद्भिः परममभिवहन्त्यो वैभवं वैजयन्त्यः॥ ७६॥
उपवनरमणीयता यथा—(मामा. ६.१९)
गाढोत्कण्ठकठोरकेरलवधूगण्डावपाण्डुच्छदै— स्ताम्बूलीपटलैः पिनद्धफलितव्यानम्रपूगद्रुमाः।
तक्कोलीफलजग्धमुग्धविकिरव्याहारिणस्तभ्दुवो भागाः प्रोङ्खितमातुलुङ्गवृतयः प्रेयो विधास्यन्ति वाम्॥ ७७॥