अयमभिनवमेघश्यामलोत्तुङ्गसानुर्मदमुखमयूरीमुक्तसंसक्तकेकः।
शकुनिशबलनीडानोकहस्निग्धवर्ष्मा विकिरति बृहदश्मा पर्वतः प्रीतिमक्ष्णोः॥ ८१॥
ये लीलाविधसाक्षिणो मुरजितः कालार्जितश्यामिकै— र्वृष्णीनां निनदन्ति रुक्मचषकैरद्यापि वातो/पानोत्सवम्।
दृष्टा रैवतकस्य कौतुकरसात् ते यस्य सेनाचरैः प्रत्यक्—सिन्धु—समीर—ताडन—रणत्तालीवनास्सानव॥ ८२॥
सरसीरमणीयता यथा—(माघ. ४.५९)
एतस्मिन्नधिकपयश्श्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः।
वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः॥ ८३॥
बकोटाः(?) पञ्चा/ पान्थानामिह हि सरसीसीम्नि सरसा/ता— ममी नेत्रानन्दं दधति चरणाचोदितमुखाः।