भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 261 to 270 of 524 verses
वर्णघृतलिप्‍तमुख्यास्तस्याः परिचुम्बनं स्मरामः॥}

** इत आरभ्य विसर्गात् पूर्वं यावन्महान् ग्रन्थपातः। लीलादीनामनन्तरमधरकर्माणि, तेषां लक्षणोदाहरणानि, तत्र अवतारिका, षण्णामधरकर्मणां नामत उद्देशः, विवर्तनकम्पनयोः प्रथमद्वितीययोर्लक्षणोदाहरणानि च त्रुटितानि। दृश्‍यतां ना. शा. ८.१४२—५।

(कपोलारम्भाः —६)

अथ कपोलारम्भाः — क्षामं, फुल्लम्, पूर्णं(घूर्णं), कम्पितं, कुञ्चितं, समं (नाशा. १३६–१४१) चेति। तत्र—

१. अवनतं क्षामं ; यथा—

परिक्षामकपोलेषु पुलकोद्भेदचारुषु।

कान्तावक्त्रेषु काऽम्भोजेष्ववर्धत तदा धृतिः॥ ८०॥

२. विकसितं फुल्लं ; यथा (पृ॰ १०५९) —

कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम्।

मुहुः पश्‍यञ् शृण्वन् रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः॥ ८१॥

Showing 261 to 270 of 524 verses