पत्युः शिरश्चन्द्रकलामनेन॥ ७३॥ (कुसं. ७.१९, पृ॰ ८८८)
११. वाल्यकौमारयौवनसाधारणो विहारविशेषः क्रीडितम्; यथा—(कुसं. १.२९)
मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च।
रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये॥ ७४॥
१२. क्रिडितमेव प्रियतमविषयं केलिः; यथा—(कुसं. ५.७४)
इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया।
निवर्तितभ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते॥ ७५॥**
विनिष्क्रमो विसर्गः; यथा—(शाकु. ३.२२)
मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम्।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं, न चुम्बितं तु॥ ७६॥