तीरंति णिअत्तेउं असमाविअपेसणा ण उण सप्पुरिसा॥ ६६॥
(नीयन्ते चिरप्रवृत्तानि समुद्रगभीराणि अपि प्रतिपथं नदीस्रोतांसि।
तीर्यन्ते निवर्तयितुं असमापितप्रेषणा न पुनः सत्पुरुषाः॥)
अव्वोच्छिण्णपसरिओ अहिअं उद्धाइ फुरिअसूरच्छाओ।
उच्छाओ सुह/भडाणं विसमक्खलिओ महाणईण व सोत्तो॥ ६७॥
(अव्यवच्छिन्नप्रसृतोऽधिकमुद्धावयति स्फुरितसूरच्छायः।
उत्साहः सुभटानां विषमस्खलितो महानदीनामिव स्त्रोतः॥)
१५. कर्मातिशयैर्न विस्मयः ; यथा—(बारा. ३.८३)
भग्नं निरीक्ष्य हरकार्मुकमित्यथैते रोमाञ्चकञ्चुकमिमं वपुरुद्वहामः।