आर्यस्तु कण्ठधृतपाणिविलक्षभावान्नासानिषण्णनयनं वदनं बिभर्ति॥ ६८॥
पात्रे पुरोवर्तिनि विश्वनाथे क्षोदीयसि क्ष्मावलये च देये।
व्रीडास्मितं तस्य तदा तदासीत् चमत्कृतो येन स एव देवः॥ ६९॥
१६. जात्यादिभिर्नाभिमानः ; यथा—
कुलममलिनं, भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं, स्फीता लक्ष्मीः, प्रभुत्वमखण्डितम्।
प्रकृतिसुभगा ह्येते भावा मदस्य च हेतवो व्रजति पुरुषो यैरुन्मादं त एव तवाङ्कुशाः॥ ७०॥
वीरश्रिया च विनयेन च रोचमानो मान्ये मुनाववनतश्च गुणोन्नतश्च।
लज्जां वहन् भृगुपतौ हतवीरदर्पे शिष्यो गुराविव कृतप्रथमापचारः॥ ७१॥