भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 271 to 280 of 543 verses
तेनापि रावणे मैत्रीमनुरुध्य ह्युपेक्ष्यते॥ ७४॥

यथा वा—(उराच.७.१)

राज्याश्रमनिवासेऽपि प्राप्‍तकष्टमुनित्रतः।

वाल्मीकेर्गौरवादार्य इत एवाभिवर्तते॥ ७५॥

३. अ(विचलितत्वम्) स्थैर्यम्; यथा—(हनुमन्ना०)

कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम्।

मुहुः पश्‍यन् शृण्वन् रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिबृढः॥ ७६॥

यथा वा—

अङ्के न्यस्योत्तमाङ्गं प्लवगकुलपतेः पादमक्षस्य हन्तुः कृत्वोत्सङ्गे सलीलं त्वचि कनकमृगस्याङ्गशेषं निधाय।

बाणं रक्षःकुलग्‍नं प्रगुणितम् अनुजेनादरात् तीक्ष्णमक्ष्णः कोणोनोद्वीक्षमाणस्त्वदनुजवदचने दत्तकर्णोऽयमास्ते॥ ७७॥

Showing 271 to 280 of 543 verses