आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा वैतृष्ण्यं तु कुतोऽस्य संप्रति मम त्वद्दर्शने चक्षुषः।
त्वत्साङ्गत्यसुखस्य नास्मि विषयस्तत् किं वृथा व्याहृते— रस्मिन् विश्रुतजामदग्न्यविजये बाहौ धनुर्जम्भताम्॥ ८१॥
६. औचित्यापरित्यागः शोभा; यथा—(मवीच. ५.५०)
दिष्ट्या यदद्य दृष्टोऽसि सर्वमेतच्च युज्यते।
किं न शस्त्रेषु युष्मासु वा सामान्यं महात्मना॥ ८२॥
. . . . तेन परिगणनस्थिनः(?)
८. स्वगुणाग्रहणम् अविकत्थनम्; यथा—
उक्तेऽप्युद्धवरामाभ्यां वक्तुं सदसि न स्पृहा।
किं चन्द्रार्कसनाथा द्यौः खद्योतेनावगाह्यते॥ ८३॥१