रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डवोऽयम्॥ ७३॥
६. प्रारम्भेष्वकालप्रतीक्षाऽस्थिरत्वं ; यथा—(वेसं. ६.१)
तीर्णे भीष्ममोदधौ, कथमपि द्रोणानले निर्वृते कर्णाशीविषभोगिनि प्रशमिते, शल्य़े च याते दिवम्।
भीमेन प्रियसाहसेन रभसादल्पावशेषे जये सर्वे जीवितसंशयं वयममी वाचा समारोपिताः॥ ७४॥
ऊरू निपीड्य गदया यदि नाद्य तस्य पादेन रत्नमुकुटं शकलीकरोमि।
देहं निपीतनिजधूमविजृम्भमाणज्वालाजटालवपुषि ज्वलने जुहोमि॥ ७५॥
७. रागादिभिराशयप्रकाशनम् अगम्भीरता; यथा—(दअ. २.९)
एतां पश्य पुरः स्थलीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः।
इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापते— र्मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डनम्॥ ७६॥