तदुन्नतं शार्ङ्गधरस्य रुक्मिणीस्तनाभिघातप्रविलुप्तचन्द्रनम्।
उपैतु तावद् युधि गृध्रकामिनीनिरत्ययाश्लेषविधेयतामुरः॥ ७७॥
८. कार्येष्वविमृश्य प्रवृत्तिः साहसं ; यथा—
हद्धुं गाहिअमोलिं अद्धच्छिण्णसिधिलं अ मोंत्तूण सिरं।
कंठपडिआसधारो उव्वंतेऊण वाहिओ जेण असि॥ ७८॥
{हन्तुं गृहीचमौलिम् अर्धच्छिन्नशिथिलं च मुक्त्वा शिरः।
कण्ठपतितास्रधारो (रं नभस्थले) वाहितो येनासिः॥}
आचार्यं किं निहन्मि प्रचलदसिलतापञ्जरप्रावृताशं नागानां वृन्दबन्धं किमुत घनघटाभोगभीमं भिनद्मि।