अस्मिन् नानास्त्रशस्त्रावलिशबलच्चापचक्रान्धकारे राज्ञां तावत् समाजे भयलुलितसितच्छत्रषण्डे पतामि॥ ७९॥
सोऽयमनयोर्विशेषगुणयोगः स्वाभाविको निरतिशयः आन्तरः, नित्यं चाल्पोपरागः, यत्प्रभावात् तदनुरूपा एव रत्यादयो१ जायन्ते। तत्र mdash;
१. मध्यमस्य रतिर्यथा—(किराता. ३.३७)
अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम्।
मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयमिनेन्द्रसूनुः॥ ८०॥
कनिष्ठस्य यथा—(बारा. १.४०)
निर्माल्यं नयनश्रियः कुवलयं, वक्त्रस्य दासः शशी कान्तिः प्रावरणं तनूर्मधुमुचो यस्याश्च वाचः किल।
विंशत्या रचिताञ्जलिः करतलैस्त्वां याचितो रावण— स्तां द्रष्टुं जनकात्मजां हृदयं! हे नेत्राणि मित्रीकुरु॥ ८१॥
२. मध्यमस्य रतिः (प्रीतिः); यथा—(उराच. ६.१९)