दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादामनो— र्दृप्तानां दहनाय दीपितनिजक्षात्रप्रतापाग्निभिः।
आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत् ततो दीप्ताग्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः॥ ८२॥
सैव कनिष्ठस्य यथा—(बारा. १.३०)
येनारोपणकर्मणाऽपि बहवो वीरव्रतं त्याजिताः कार्यं सज्जितबाणमीश्वरस्तुद्दोर्भिरेभिर्मा।
स्त्रीरत्नं तदगर्भसम्भवमितो लभ्यं च लीलायितं तेनैषा मम फुल्लपङ्कजवनच्छाया दृशां विंशतिः॥ ८३॥
३. मध्यमस्येति (उत्कण्ठा) यथा—(विक्रमो. १.२०)
एषा मनो मे प्रसभं शरीरात् पितुः पदं मध्यममुत्पतन्ती।
सुरङ्गना कर्षति खण्डिताग्रात् सूत्रं मृणालदिव राजहंसी॥ ८४॥
कनिष्ठस्य यथा—(बारा. ३.९)