आश्लेषिणः पृथुरतक्लमपीतशीतमायामिनीं घनमुदो रजनीर्युवानः।
ऊर्वोर्मुहुर्वलनबन्धनसन्धिलोलपादान्तसंवलिततूलपटाः स्वपन्ति॥ ८२॥
११. उत्तमस्य प्रबोधो यथा—(कुसं. ८.८५)
स व्यबुध्यत बुधस्तवोचितः शातकुम्भकमलाकरैः समम्।
मूर्च्छनापरिगृहीतकैशिकैः किन्नरैरुषसि गीतमङ्गलः॥ ८३॥
उन्निद्रितोऽस्मि विगलन्मधुवारहारि— व्याकोशकोकनदगन्धिसमीरणेन ।
१(आन्दोलितासु लतिकास्वमुना तुषार— संघात एष विलुठन् विकिरॅश्च भाति)॥ ८४॥
१२. उत्तमस्य व्रीडा यथा—(सूमु. ३१)