एवं नायिकाप्रकारः षोडशधा।
उत्तममध्यमकनिष्ठादिभेदाश्च सर्वासामपि यथासम्भवं प्राग्वदेवाभ्यूहनीयाः।
उत्तमत्वादिहेतवश्च नायकानां सामान्यगुणा जात्यादयश्चतुर्विंशतिः, नायिकानां महाकुलीनतादयः षोडश।
अनुनायकगुणास्तावत् जातिः, अन्वयः, अभिजनः, निवासः, आस्पदं, पदं, पितरौ, प्रभावः, प्रज्ञा, शास्त्रज्ञानं, अदीनवाक्यता, वाग्ग्मित्वं, देशकालावबोधः, इङ्गिताकारज्ञता, दाक्ष्यं, कलावैदग्ध्यं, चतुरता, रूपसम्पत् सौभाग्यं, त्यागः, सौहार्दं, महारम्भता, शक्तिः, शौर्यम् इति। तेषु—
तस्मादजायत मनुर्नवराजबीजं यस्यान्वये स सगरश्च भगीरथश्च।
एकेन येन जलधिः परिखानितोऽयमन्येन सिन्धुसरिता परिपूरितश्च॥ ७६॥
२. अन्वयो यथा—(रघु. १.१२)
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः।