प्रतिनायिकासु उदात्ता यथा—(हरिविजये)
आणिअपुलउब्भेओ सवत्तिपणअपरिधूसरम्मि वि गरुए।
पिअदंसणे पवड्ढइ मण्णुट्ठाणे वि रुप्पिणीअ पहरिसो॥ ७२॥
(आनीतपुलकोद्भेदः सपत्नीप्रणयपरिधूसरेऽपि गुरुके।
प्रियदर्शने प्रवर्धते मन्युस्थानेऽपि रुक्मिण्याः प्रहर्षः॥)
कुविआ अ सच्चभा/हामा समेवि वहुआण णवर माणक्खलणे।
पाअडिअ—हिअअ—सारो पेम्मासंघसरिसो पवड्ढइ/ट्टइ मण्णू॥ ७३॥
(कुपिता च सत्यभामा समेऽपि वधूनां केवलं मानस्खलने।
प्रकटितहृदयसारः प्रेमाश्वाससदृशः प्रवर्त/र्धते मन्युः॥)