ससिमणिघडिआ वाबुल्लिअ व्व वारीमई जाआ॥ ६६॥
(ततस्तस्य मृगलाञ्छनस्य करस्पर्शसमुद्गतेन स्वेदेन।
शशिमणिघटिता पुत्तलिकेव/पुत्रिकेव वारीमयी जाता॥)
नवे च वयसि प्राप्तवैराग्याभ्यासवासना।
व्यालोकि कन्यका तेन धृतपाशुपतव्रता॥ ६७॥
अनुनायिकासु उदात्ता यथा—(मवीच. १.२०)
लाङ्गलोल्लिख्यमानाया यज्ञभूमेः समुद्गता।
सीतेयमूर्मिलेयं तद्द्वितीया जनकात्मजा॥ ६८॥