द्वित्राण्यथ रथाद् भूमौ पदान्याधाय निस्सहा।
येयमद्य कियद् दूरमिति पप्रच्छ मैथिली॥ ६०॥
यद् वैद्युतमिव ज्योतिरार्ये क्रोधेन सम्भृतम्।
तत् प्रावृडिव कृष्णेयं नूनं संवर्धयिष्यते॥ ६१॥
ततः सुनन्दावचनावसाने लज्जां मृदूकृत्य नरेन्द्रपुत्री।
दृष्ट्या प्रसादामलया कुमारं पर्यग्रहीत् संवरणस्रजेव॥ ६२॥
तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया।