अलिहिअ—दुप्परिअल्लं पि णेइ रण्णं धणुं वाहो॥ ५६॥
(नववधूप्रेमतनूकृतः प्रणयं प्रथमगृहिण्या रक्षन्।
अलिखितदुराकर्षमपि नयत्यरण्यं धनुर्व्याधः॥)
५०. अनुग्रहो यथा—(गास. ३.९९)
खिण्णस्स उरे पइणो ठवेइ गिम्हावरण्हरमिअस्स।
ओल्लं गलंतपु/उप्फं ण्हाणसुअंधं चिहुरभारं॥ ५७॥
(खिन्नस्योरसि पत्युः स्थापयति ग्रीष्मापराण्हरमितस्य।
आर्द्रं गलत्पुष्पं स्नानसुगन्धं चिकुरभारम्॥)
झत्ति समुट्ठिअ-मणहर-सिरि-वअण-विलास-संभमाउलिअं।