त एव महिलानां प्रियाः शेषाः स्वामिन एव वराकाः॥)
मानात् प्रवासः ; स यथा—(गास. १.४६, वल. ३६५)
कल्लं किर खरहिअओ पवच्चसिहि दइओ त्ति सुव्वइ जणंमि।
तह वड्ढ भअवइ णिस! जह से कल्लं तिअ ण होइ॥ ५३॥
(कल्यं किल खरहृदयः प्रवत्स्यति दयित इति श्रूयते जने।
तथा वर्धस्व भगवति निशे! यथा तस्य कल्यमेव न भवति॥)
प्रवासात् करुणः ; स यथा—(गास. २.४२)
समदुक्खसोक्खपरिवड्ढिआण कालेण रूढपणआण।
मिहुणाण मरइ जं तं खु जीअइ, इअरं मअं होइ॥ ५४॥
(समदुःखसुखपरिवार्धितानां कालेन रूढप्रणयानाम्।