सब्भावचाडुअं जत्थ णत्थि, णेहो तहिं णत्थि॥ ५७॥
(यत्र नोज्जागरकं यत्र नेर्ष्याखेदो मानः।
सद्भावचाटुकं यत्र नास्ति स्नेहस्तत्र नास्ति॥)
अणवरअ—केलि—पसरंत—सोक्ख—पब्भार—ईसि—कुंठइअं।
माणणिसा—णअ—णिच्छिअं होइ पुणो अहिणवं पेम्मं॥ ५८॥
(अनवरतकेलिप्रसरत्सौख्यप्राग्भारेषत्कुण्ठितम्।
माननिशातमिव भवति पुनरभिनवं प्रेम॥)
प्रवासानन्तरात् प्रवासो बलीयान्। स वैचित्र्ये यथा—(रघु. १३.२८)
पूर्वानुभूतं स्मरता च रात्रौ कम्पोत्तरं भीरु! तवोपगूढम्।