गुहाविसारीण्यतिवाहितानि मया कथञ्चिद् घनगर्जितानि॥ ५९॥
स एव रागवर्धनत्वे यथा—(उराच. १.३३)
शैलः सोऽयं ककुभसुरभिर्माल्यवान् नाम यस्मिन् नीलः स्निग्धः श्रयति शिखरं नूतनस्तोयवाहः।
आर्येणास्मिन्; विरम विरमातः परं न क्षमोऽस्मि प्रत्यावृत्तः पुनरिव स मे जानकीविप्रयोगः॥ ६०॥
करुणानन्तरात् करुणो बलीयान्। स वैचित्र्ये यथा—(शाकु. ७.२५)
मोहान्मया सुतनु! पूर्वमुपेक्षितस्ते यो बद्धबिन्दुरधरं परिबाधमानः।
तं तावदाकुटिलपक्ष्मविलग्नमद्य बाष्पं प्रमृज्य विगतानुशयो भवामि॥ ६१॥
स एव रागवर्धनत्वे यथा—(शाकु. ७.२१)
वसने परिधूसरे वसाना नियमक्षामतनुः कृतैकवेणिः।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घां विरहव्यथां बिभर्ति॥ ६२॥