एवं मानानन्तरप्रवासानन्तरकरुणानन्तरेभ्यः प्रथमानुरागः, प्रथमानुरागानन्तर— प्रवासानन्तरकरुणानन्तरेभ्यो मानः, मानानन्तरकरुणानन्तरप्रथमानुरागानन्तरेभ्यः करुणो बलीयानिति, वैचित्र्ये रागवर्धनत्वे च यथादर्शनमुदाहरणीयम्। एवं नित्यान्नैमित्तिको बलीयान्। स—
रागवर्धनत्वे यथा—(गास. ४.५५)
मा वच्च पुप्फलाई/लाविर देवा उअअंजलीहिं तूसंति।
गोलाणईएॅ पुत्तअ! सीलुम्मूलाइँ कूलाइँ॥ ६३॥
{मा व्रज पुष्पलाविन्/लवनशील! देवा उदकाञ्जलिभिस्तुष्यन्ति।
गोदानद्याः प्रत्रक! शीलोन्मूलकानि कूलानि॥}
सामान्याद् विशेषः। सोऽपि रागवर्धनत्वे यथा—(रघु. ६.६९)
तं वीक्ष्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात् कुमारी।
न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली॥ ६४॥
प्रकाशात् प्रच्छन्नो बलीयान्। सोऽपि तत्रैव, यथा—